SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् षष्ठ उद्देशकः १०७८ (B) यदि वा मम भयेनाऽतीसारो जातः । अथवा मा भविष्यत्येषां हत्येति व्रजामि अलं पर्याप्तं विवादेन'॥ २५२८॥ अधुना "दंडियमादि'' त्ति व्याख्यानयति - चंदगवेज्झासरिसं, आगमणं रायइड्डिमंताणं । पव्वज सागभद्दग, इच्चादि गुणाण परिहाणी ॥ २५२९ ॥ दारं २।। यथा इन्द्रपुरे इन्द्रदत्तस्य राज्ञः सुतेन कथमपि पुत्तलिकाक्षिचन्द्रकस्य वेधः कृतस्तत्सदृशं राज्ञ ऋद्धिमतां चान्येषामाचार्यसमीपे आगमनम्, आचार्ये च संज्ञाभूमि गते दण्डिकादिरागतो | भवेत्। ततः संज्ञाभूमिं गत आचार्य इति श्रुत्वा प्रतिनिवर्तेत, यदि पुनः संज्ञाभूमिं न गता आचार्या भवेयुस्ततो धर्म श्रुत्वा कदाचित् ते प्रव्रज्यां गृह्णीयुः। प्रव्रजितेषु च राजादिषु महती प्रवचनप्रभावना । तथा श्रावकत्वं केचित् कदाचित् प्रतिपद्येरन् यथाभद्रका वा भवेयुस्तथा वा चैत्यसाधूनां महान् उपग्रहः, संज्ञाभूमिगमने चैतेषां गुणानां हानिः ॥ २५२९ ॥ सम्प्रति "सुत्तत्थाणं च गच्छे परिहाणी" इत्येतद्व्याख्यानार्थमाह गाथा २५२७-२५३१ आचार्यस्य वसतेर्बहिर्गमने दोषाः ४१०७८ (B) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy