SearchBrowseAboutContactDonate
Page Preview
Page 549
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् सप्तम उद्देशकः १३०८ (A यदि तस्मिन् ग्रामे अन्येऽपि संविग्ना: असाम्भोगिकाः सन्ति तदा तैः सह परिष्ठापयति, तेषामभावे असंविग्नैः पार्श्वस्थादिभिः समम्, तेषामप्यभावे सारूपिकसिद्धपुत्रैः, तेषामप्यप्राप्तौ संज्ञिभिः श्रावकैस्समम्। एवं पूर्वं स्वग्रामे मार्गणा कर्त्तव्या। तत्र स्वग्रामे संज्ञिनामप्यसति अभावे यदि परग्रामे स्वपक्षोऽस्ति तत्र कञ्चित् प्रेषयति। अन्यस्य तथाविधस्य प्रेषणयोग्यस्याऽभावे अप्पाहइत्ति अन्यं गच्छन्तं सन्दिशति । अन्यस्यापि गच्छतोऽसम्भवे कालगतस्य पार्श्वे कञ्चित् स्थापयित्वा स्वयमन्यग्रामं गच्छति। गत्वा सपक्षमन्यमानयति। अथ स कोऽपि न विद्यते यः कालगतस्य पार्श्वे स्थाप्यते तर्हि यत्र काकादिभिर्न भक्ष्यते तत्र निरत्यये निरपाये स्थाने कालगतं कृत्वा ततोऽन्यग्रामं व्रजेत्। गत्वा संविग्नादीनानयति प्रथमतः संविग्नान् साम्भोगिकानानीय तैः समं परिष्ठापयति, तेषामलाभे असाम्भोगिकैरपि, तेषामप्यभावे असंविग्नैः पार्श्वस्थादिभिः, तेषामप्यसति सारूपिकसिद्धपुत्रैः, तेषामप्यप्राप्ती श्रावकै स्सम, तेषामप्यभावे स्त्रीवर्गेण। तत्र क्रममाह -प्रथमतः सारूपिकीभिः सिद्धपुत्रीभिरतुल्यवयोभिः, तासामप्यलाभे श्राविकाभिरतुल्यवयोभिः, तासामप्यभावे वृद्धाभिः संयतीभिः, तासामप्यप्राप्तौ मध्यमवयोभिः संयतीभिः, तासामप्यलाभे तुल्याभिरपि तल्यवयोभिरपि संयतीभिः ॥ ३२६९ ॥३२७० ॥ ३२७१ ।। गाथा ३२७२-३२७६ एकाकिनः परिष्ठापनाविधिः ४१३०८ (A) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy