SearchBrowseAboutContactDonate
Page Preview
Page 547
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् सप्तम उद्देशकः www. kobatirth.org अचियत्तमादिवोच्छेयमादि दोसा उ होंत परलिंगे । अन्नाए ओहि काले, अ कए गुरुगा य मिच्छत्तं ॥ ३२६७॥ Acharya Shri Kailassagarsuri Gyanmandir ज्ञाते सति परलिङ्गे क्रियमाणे अचियत्तादयोऽप्रीत्यादयो व्युच्छेदादयश्च दोषा भवन्ति । तथाहि-ग्रामेयकास्तत् परलिङ्गं कृतमितरांश्च साधून् दृष्ट्वा अप्रीतिं कुर्वन्ति - 'अहो इमे संयता निःशूका निर्लज्जा मा परिष्ठाप्यो भूदिति परलिङ्गमारोप्याऽपरिष्ठाप्य त्यक्त्वा गताः । १३०७ (A) आदिग्रहणेनाऽऽगाढमिथ्यादृष्टीनां प्रीतिरुपजायते इति परिग्रहः । तत्र च व्युच्छेदादयो दोषाः । तथाहि - ते आगाढमिथ्यादृष्टयः प्रीता ब्रुवते - अहो सुन्दरमात्मनैव तैः प्रवचनस्य हीलना कृता, मा एतेषामाहारादीनि प्रयच्छथ, आदिग्रहणान्मा अत्र कोऽपि प्रव्रज्यां प्रतिपद्येत, मा सोऽप्येवंविधामवस्थां प्राप्नुयात् । एते ज्ञातानां दोषाः । अथ अज्ञाताऽयतनां कृत्वा तत् कलेवरमपरिष्ठाप्य व्रजन्ति तर्हि ते यदि क्षिप्रमेव गतास्ततः स पश्चात् कालगतो देवलोके उत्पन्नोऽवधिं प्रयुङ्क्ते ततः स एवं मन्येत 'अहमेतेन लिङ्गेन देवो जातः', एवं मननानन्तरं मिथ्यात्वगमनम् । अत्र काले कृते तेषां गमने प्रायश्चित्तं चत्वारो गुरुकाः । यस्मादेते दोषास्तस्मात् विधिना परिष्ठाप्यः ॥ ३२६७ ॥ सम्प्रति यः कथञ्चन एकाकी जातस्तस्य परिष्ठापनाविधिमाह For Private And Personal Use Only गाथा | ३२६५-३२७१ एकाकिनः * परिष्ठापनाविधि: १३०७ (A)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy