________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारसूत्रम् सप्तम
उद्देशकः १३०३ (A)
गृह्यन्ते, यथा-युष्माभिरयं मारितः। ततः सीमायां राजभयेन, वाशब्दः समुच्चये, अददत्सु कौटुम्बिकेषु तस्य ग्रामस्य यो भोजिको महत्तरः स पृच्छ्यते- यथा क्षेत्रसीमायां वयं मृतकं परिष्ठापयामः । आदिशब्दात् यदि स ब्रूयात् 'आयुक्तको जानाति नाहमिति ततस्तं | पृच्छ' तदा स पृच्छ्यते। यदि सोऽनुजानाति ततः सुन्दरमथ नानुजानाति तदा राजपथे परिष्ठाप्यते। अथवा द्वयोः ग्रामयोर्मध्ये सीमायां स राजावग्रह इति कृत्वा ॥ ३२५६॥
अधुना श्मशानद्वारमाहअसती तू सीयाणे, रुंभण अन्नत्थ अपरिभोगम्मि । असती अणुसट्ठादी, णंतग अंताइ इयरे वा ॥ ३२५७॥ दा. ६। ।
राजपथस्य ग्रामद्वयमध्यस्य वा कथमप्यभावे सीयाणे श्मशाने परिष्ठाप्यते, अथ श्मशानपालक: श्मशानद्वारे स्थितो निरुणद्धि यथा- 'यद् दातव्यं तद् दत्त्वा श्मशानमभिगच्छथ' तदा अन्यत्र अपरिभोगे यत्राऽनाथमृतकानि परिष्ठाप्यन्ते दह्यन्ते वा तत्र परिष्ठापयन्ति । अथ ताहक स्थानं न विद्यते तदा तस्य असत्यभावे तस्य श्मशानपालकस्य
गाथा ३२५४-३२५८
पारिष्ठाप निकाविधि:
X
१३०३ (A)
For Private And Personal Use Only