SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् सप्तम उद्देशक: १२८७ (B) ܀܀܀܀܀܀܀ www. kobatirth.org अत्याकुलानां बालवृद्धैरतिशयेन समाकुलानां साधूनामर्शोभगन्दरादिषु श्रमणीनां च नित्यर्त्तकानां मा नित्यं सर्वकालमस्वाध्यायो भवतु इति वाचनासूत्रमुपन्यस्तमित्येष सम्बन्धः || ३२०२ ॥ अनेन सम्बन्धेनायातस्यास्य व्याख्या Acharya Shri Kailassagarsuri Gyanmandir न कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा आत्मनः समुत्थे अस्वाध्यायिके स्वाध्यायं कर्तुं किन्तु कल्पते परस्परस्य वाचनां दापयितुम् अन्यत्र, यदि वा प्रक्षालनानन्तरं गाढबन्धे प्रदत्ते सति तत्रापि स्वयमपि वाचनां दातुं कल्पते इति वाक्यशेषः । एतदेव भाष्यकार: सप्रपञ्चमाह आयसमुत्थमसज्झाइयं तु एगविह होइ दुविहं वा । एगविहं समणाणं, दुविहं पुण होइ समणीणं ॥ ३२०३ ॥ आत्मनः शरीरात् समुत्थं सम्भूतम् आत्मसमुत्थमस्वाध्यायिकमेकविधं वा भव द्विविधं वा, तत्र यत् एकविधम् अर्शोभगन्दरादिविषयं तत् श्रमणानां भवति, श्रमणीनां पुनर्भवति द्विविधं अर्शोभगन्दरादिसमुत्थम् ऋतुसम्भवं च ॥३२०३ ॥ For Private And Personal Use Only सूत्र १७ गाथा | ३१९९-३२०३ आत्मसमुत्थे * अस्वाध्यायिके विधिः १२८७ (B)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy