SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् सप्तम उद्देशकः १२७८ (A) अकरणे नैषेधिक्यादेः, आदिशब्दात् आवश्यकी-नमस्कारादेश्च परिग्रहः। यदि कालभूमेः निर्गच्छन् आवश्यकीं न करोति, गुरुसमीपमागच्छन्नैषेधिकी, गुरुसमीपमागच्छन् नमःक्षमाश्रमणेभ्य इति नमस्कारं वा यदि न करोति, नाप्यैर्यापथिक्या प्रतिक्रामति, नापि वन्दनकं ददाति तदा कालवध इति योगः। तथा आपतनादौ आपतने प्रस्खलने च कालवधः। तथा जोइक्खो नाम दीपः। 'जोइक्खं तह छाइल्लयं च दीवं मुणिज्जाहि'। इति, तज्योतिःस्पर्शने वा कालवधः। तथा अप्रमार्जिते भूमेरप्रमार्जने तथा क्षुते छिन्ने च मार्जारादिनाऽपान्तराले मार्गे कालवधः ॥ ३१६९ ॥ इरियावहिया हत्थंतरे वि मंगलनिवेयणा समयं । सव्वेहिं वि पट्टविए, पच्छाकरणं अकरणं वा ॥३१७०॥ आगत्य हस्तशताभ्यन्तरेऽपि ऐर्यापथिक्या प्रतिक्रन्तव्यम्, मुखपोतिकाप्रतिलेखनानन्तरं वन्दनकं दातव्यं, ततः शुद्धकाल इति मङ्गलनिवेदनं कर्त्तव्यं, ततो मङ्गलनिवेदनानन्तरं समकमेव सर्वैः स्वाध्याये प्रस्थापिते पश्चात्करणमकरणं वा कालदानस्य। किमुक्तं भवति? १. ओधनि. टीका गा. ६५३ मध्ये - भीत: त्रस्तो वा यदि भवति तथाऽपि व्याहन्यते इति ॥ गाथा ४३१७०-३१७५ विधिः १२७८ (A) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy