SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् सप्तम उद्देशकः १२७४ (B) ܀܀܀܀܀܀܀܀܀ ܀܀܀܀܀܀܀ www. kobatirth.org 1 ततो दण्डधरस्य स्वस्थानागमनादनन्तरं कालग्राही एभिर्वक्ष्यमाणैर्गुणैर्युक्तः कालग्रहणायोतिष्ठति । कैर्गुणैर्युक्तः ? इत्याह- प्रियो धर्मो यस्याऽसौ प्रियधर्मा, धर्मे दृढो दृढधर्मः, राजदन्तादिदर्शनात् दृढशब्दस्य पूर्वनिपातः । अत्र भङ्गचतुष्टयम् । प्रियधर्मा नामैको न दृढधर्मः १ एकः न प्रियधर्म्मा दृढधर्म्म: २ एकः प्रियधर्मापि दृढधर्मोऽपि च ३ एको न प्रियधर्मा नापि दृढधर्मः४। अत्र पदद्वयोपादानात् तृतीयभङ्गग्रहणम् । संविग्नः सम्यगनुष्ठाता, कस्मात् संविग्नः ? इत्याह- अवद्यभीरुः अवद्यं पापं तस्मात् भीरुरवद्यभीरुः । अत्र प्रथमा हतौ, 'निमित्तकारण - हेतुषु सर्वासां विभक्तीनां प्रायो दर्शनम्' इति वचनात् । ततोऽयमर्थो यस्मादवद्यभीरुस्ततः संविग्नत्वं करोति ॥ ३१५६ ॥ खेयन्नो य अभीरू, एरिसतो सो उ कालगाही उ । उट्ठेति गुरुसगासं, ताहे विणएण सो एइ ॥ ३१५७ ॥ Acharya Shri Kailassagarsuri Gyanmandir खेदज्ञः कालविधेः सम्यग् ज्ञाता । अभीरुः मार्जारादेर्न बिभेति, अन्यथा उत्त्रस्तस्य छलना स्यात्। एतादृशः स कालग्राही तत उत्थाय गुरुसकाशं स्थापनागुरोः समीपं विनयेनागच्छति ॥ ३१५७ ॥ For Private And Personal Use Only गाथा | ३१९५५-३१६० * कालग्रहणविधि: १२७४ (B)
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy