SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् सप्तम उद्देशकः १२६३ (A) रायपहे न गणिज्जति, अह पुण अन्नत्थ पोरिसी तिन्नि । अह पुण वूढं होजा, वासोदेणं ततो सुद्धं ॥ ३१२० ॥ राजपथे यद्यस्वाध्यायिकबिन्दवो गलितास्तदा तदस्वाध्यायिकं न गण्यते, किं कारणम्, इति चेद्, उच्यते- यतस्तत्र स्वयोगत आगच्छतां गच्छतां च मनुष्यतिरश्चां पदनिपातैरेवोत्क्षिप्तं भवति। जिनाज्ञा चाऽत्र प्रमाणमतो न दोषः। अथ पुनस्तदस्वाध्यायिकं तैरश्चं राजपथादन्यत्र षष्टिहस्ताभ्यन्तरे पतितं तदा तिस्त्रः पौरुषीर्यावदस्वाध्यायः । अथ तदपि वर्षोदकेन व्यूढं भवेत्, उपलक्षणमेतत्, प्रदीपनकेन वा दग्धं तदा शुद्धं तत् स्थानमिति कल्पते स्वाध्यायः ॥ ३१२० ॥ सम्प्रति 'परवयणे साणमादीणि' इति व्याख्यानयतिचोदेति समुद्दिसिउं, साणो जइ पोग्गलं तु एजाहि । उदरगतेणं चिट्ठति, जा ता चउहो असज्झातो ॥ ३१२१॥ अत्र परश्चोदयति श्वा यदि पौद्गलं तैरश्चं मांसं बहिः समुद्दिश्य तत्राऽऽगच्छेत् तर्हि यावत् स तत्र तिष्ठति तावत् तेनोदरगतेन पौद्गलेनास्वाध्यायः कस्मान्न भवति? ॥ ३१२१ ॥ गाथा ३११८-३१२३ तैरश्चं शारीरिकम् | अस्वाध्यायम् १२६३ (A) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy