SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहार सूत्रम् षष्ठ उद्देशकः १०५५ (A) तं ज्ञातविधिगतं साधुं दृष्ट्वा तद्भार्या इदं विचिन्तयेत् 'अस्मिन् जीवति मां देवरा भोग्यतया नेच्छन्ति, तस्मान्मारयामि केनाप्युपायेनैनमिति' विचिन्त्य स्वयं वा विषं दद्यादन्येन वा दापयेत् १०। "सयं व ससुरेणं" इत्यादि द्वारमाह- से तस्य साधोः श्वशुरो वा । स्वयमिदं कुर्यात् ॥२४५२॥ किं तदित्याहपंतवणबंधरोहं, तस्स वि नियल्लगा व खुब्भेजा । अहवा कसातिओ ऊ, सो वऽतिवाएज एक्कतरं ॥२४५३॥ दारं ११। श्वशुरस्तं दृष्ट्वा कुप्येत यथैतेन मम दुहिता जीवच्छल्यीकृता, ततः कोपात् तस्य साधोः प्रान्तावणं प्रहारदानं बन्धनं वा निगडादिभिः रोधं वा गृहानगराद्वा अनिर्गमनं कुर्यात् कारयेत् वा । तस्यापि च साधोर्निजका आत्मीयास्तमेनामवस्थां प्रापितं दृष्ट्वा ज्ञात्वा वा क्षुभ्येयुः, क्षोभाच्च श्वशुरेण समं युद्धं कुर्युस्तत्र परस्परमपद्रावणादि भूयात् । अथवा स एव वा साधुः कषायितः कषायोदयं प्राप्तः सन् एकतरं श्वशुराद्यन्यतममतिपातयेत् ११॥ २४५३॥ गाथा २४४९-२४५५ ज्ञातविधि गमने दोषाः प्रायश्चित्तं च १०५५ (A) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy