________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ग्रन्थेन यानि कल्पेऽभिहितानि [कारणानि] तानि मुक्त्वा शेषकालं यद् भवति गमनं तदकारणं निष्कारणमित्यर्थः। एतेन 'ता वा संयत्यो निष्कारणमायान्तीति व्याख्यातम् ॥ ३०४२॥
व्यवहारसूत्रम् सप्तम
उद्देशकः १२३८ (B)|
थेरा सामायारिं, अज्जा पुच्छंति ता परिकहेंति । आलोयण१ सच्छंदंर वेंटल३गेलन४पाहुणिया५ ॥ ३०४३॥
स्थविरा आचार्या आत्मीया आर्यिका वास्तव्यानामार्यिकाणां सामाचारी पृच्छन्ति, यथा-कीदृशी वास्तव्यानामार्यिकाणां सामाचारी? इति एवं पृष्टाः सत्यस्ताः परिकथयन्ति। या यत्र गताः तास्ततः प्रत्यागता नालोचयन्ति, नापि दैवसिकं रात्रिकं पाक्षिकं वाऽतीचारमालोचयन्ति। तथा स्वच्छन्दं वर्तन्ते नाचार्योपाध्यायप्रवर्तिनीनां च वश्याऽऽयत्ताः, तथा वेंटलानि प्रयुञ्जन्ति, न च ग्लानाया: प्रतितर्पयन्ति, नापि प्राघूर्णकानां वात्सल्यं विदधति ॥ ३०४३॥ चित्तलए६ सविकारा७, बहुसो उच्छोलणं च कप्पढे । थलिघोड१०वेस११साला१२,जंत१३वए१४काहिय१५ निसिज्ज१६ ॥३०४४।।
गाथा ४३०४०-३०४७
संविग्नत्वपरीक्षा
१२३८ (B)
For Private And Personal Use Only