SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् सप्तम उद्देशकः १२२४ (B) अथवा एकस्याऽऽचार्यस्य सम्बन्धिनौ तौ द्वावपि संयतीवर्गौ, तत एकस्य समीपे गच्छतः। ततः स एकस्तौ वा द्वौ गणधरौ तदधिकरणं यत्र चैत्यगृहेऽन्यत्र वोत्पन्नं तत्र द्वावपि वर्गों |* नीत्वा उपशमयतः। अथ लज्जादिना स्वस्वगुरोर्न निवेदितमेकतरश्च पक्षो निर्गतस्तत आहआसन्नेत्यादि, यद्यासन्नं गतोऽपान्तराले च निर्भयं ततः स आनाय्यते, अथ सापायं तर्हि तासां गणधर आगच्छति, आगत्य क्षमणं करोति। अथ दूरे गतस्तर्हि वृषभाणां प्रेषणं कर्त्तव्यं, ततो वृषभाः समेत्य ताः संयती: क्षमयन्ति। अथ द्वितीयपक्षो नोपशान्तस्ततः पुनरावृत्तौ जातायां पूर्वोक्तकारणैस्तदेव प्रागुक्तं द्वितीयं पदमवसातव्यं, यत्र मिलन्ति तत्रैव सूत्र १३ क्षमयन्ति। अमिलने गुरूणामन्तिके इति ॥ २९९१ ।। गाथा २९९०-२९९५ एतदेव मूलतः सविस्तरं विभावयिषुरिदमाह व्यतिकृष्ट काले चेइयघरं नियत्ता, जत्थुप्पन्नं च तत्थ विझवणं । स्वाध्याय निषेधः लज्जभया व असिढे, दुवेगतर निग्गम इमं तु ॥ २९९२॥ १२२४ (B) स्वस्वगुरुनिवेदने कृते तौ द्वावपि गुरू संयतीवर्गद्वयमपि चैत्यगृहं नीत्वा, अथवा | For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy