SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहार सूत्रम् सप्तम उद्देशकः १२२३ (B) शिष्यः प्राह-कथं केन प्रकारेण पुनस्तासामाधिकरणमुत्पन्नं स्यात् ? सूरिराह-काश्चनायिकाचैत्यवन्दनाय चैत्यगृहं गताः। तस्मिंश्च चैत्यगृहे बहिर्मुखमण्डपादिकं न समस्ति। ततश्चैत्यगृहमध्यस्थिताश्चैत्यानि वन्दन्ते। तासां च वन्दमानानां प्रथमस्तुतेरारभ्य अन्याः काश्चन संयत्यः समागताः । ताश्च मध्ये अवकाशो नास्तीति बहिरुष्णे स्थिताः । ततो विस्तरेण चैत्यस्तुतीनां भणने बहि:स्थिता उष्णेन परितप्यमाना वदन्ति-युष्माभिः कोकिलाशब्दाभिर्धणियमतिशयेन वयं परितापिताः॥ २८८७॥ २९८८॥ तथानग्धंति नाडगाई, कलं पि कलभाणणीण तुब्भाणं । विप्पगते भवतीणं, जायं ने भयं नरवतीति तो ॥ २९८९॥ युष्माकं कलभाननानां सुस्वरमनोज्ञाननानां पुरतः कलामपि मनागपि नाटकानि | नार्घन्ति । ततो भवतीनां विप्रकृते कारणेन जातं नोऽस्माकं भयं नरपतेः। नूनं नरपतिना | यूयं नाटके प्रक्षेप्स्यध्वे ॥ २९८९॥ सूत्र १२ गाथा २९८३-२९८९ निर्ग्रन्थीनां कलहशमनविधिः १२२३ (B) १. कलमाणिणीण-पु. प्रे. ला.। कलभासिणीण-ला. पाठा.॥ २. मनोज्ञागतानां-पु. प्रे.॥ For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy