SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् सप्तम उद्देशकः ११९२ (B) इति ज्ञाते अज्ञाते वा द्रव्यादिभिः परीक्ष्याऽऽलोचयितव्यम् आलोचिते च सह भुञ्जते । अथ साम्भोगिकाः सन्तः कथं न ज्ञायन्ते येनाऽज्ञातेनेत्युच्यमानं शोभेत ? तत आह- पच्छोवसंपयं खलु इत्यादि, पूर्वं ये उपसम्पन्नास्ते असमानीभूताः, अन्ये पश्चात् केऽप्युपसम्पन्नाः, अथवा पश्चादागत्य केचित् प्रव्रजितास्ततोऽदृष्टपूर्वतया ते न ज्ञायन्ते इति अज्ञाता भवन्ति । गाथायामेकवचनं जातौ ततोऽयमर्थ:- आरादपि पूर्वदर्शनादर्वागपि पश्चादुपसम्पन्नान् शैक्षकान् वा आसाद्य साम्भोगिकानामप्यज्ञानता भवति। तदेवं 'नायमनाए' इति गतम् ॥ २८८८ ॥ इदानीम् 'आलोयणा' इति व्याख्यानयति गाथा २८८७-२८९३ महल्लयाए गच्छस्स, कारणेहऽसिवादिहिं । आर्यसुहस्तितः देसंतरगया केइ, तत्थिमा जयणा भवे ॥ २८८९॥ परीक्ष्य आलोच्य अतिमहत्तया गच्छस्य नास्ति एकत्र संस्तरणम् यदि वा अशिवादिभिः कारणैः | सहभोजनादिः देशान्तरं गताः एतैः कारणैः बहवः पृथक् पृथक् स्थिताः । तत्र पूर्वस्थितेषु पश्चादागतानां ११९२ (B) परस्परं यत्र मेलापको भवति तत्रेयं यतना ॥२८८९॥ For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy