SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् षष्ठ उद्देशकः ११५८ (A) अनुद्घातितं गुरुकं मासिकं परिहारस्थानं प्रायश्चित्तं स्थानम्। तथा यत्रैते बहवः स्त्रियः पुरुषाश्च प्रस्नुवन्ति मैथुनकर्म प्रारम्भन्ते तत्र तदृष्ट्वा कश्चित् स श्रमणो निर्ग्रन्थो अन्यतरस्मिन् अचित्ते प्रतिमादौ स्रोतवति शुक्रपुद्गलान् निर्घातयन् मैथुनप्रतिसेवनाप्रसक्तो भवति स च तथाप्रसक्त आपद्यते चातुर्मासिकमनुद्घातितं गुरुकं परिहारस्थानम्। इत्येष सूत्रसक्षेपार्थः । अधुना भाष्यविस्तरः बाहिं वक्खारठिए, महिलाआगम अवारणे गुरुगा । वारण वासे पेल्लणमुदये पडिसेवणा भणिया ॥ २७८४॥ बहिर्वक्षस्कारेऽपवरके स्थिते त्वग्दोषवति तत्र निवेशनादौ वा कृतसङ्केता स्त्री सस्त्रीको | वा पुरुषः समागच्छेत्, स चाऽऽगच्छन् वारयितव्यः अवारणे प्रायश्चित्तं चत्वारो गुरुकाः। वारणेत्यादि, तत्र यथा वारणं तथा वक्तव्यम् । अथ बहिर्वर्षं गाढं पतति, उपलक्षणमेतत् स्तेना: श्वापदानि वा बहिः विद्यन्ते तेन न निर्गच्छन्ति तदा तेष्वनिर्गच्छत्स्वधिकृतसूत्रस्यावकाशः। तथा साधोः स्त्रिया प्रेरणा क्रियते तदा प्रेरणायां तथा उदये वेदोदये सूत्रे प्रतिसेवना भणिता। गाथा २७८४-२७८८ मोहोदये प्रायश्चित्तम् ११५८ (A) १. अर्चिते- मु.पु. प्रे.॥ For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy