SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् षष्ठ उद्देशकः ११४१ (B) यद्यहं हस्तकर्माद्यन्यद्वा पापं समाचरिष्यामि तदा लज्जनीयो भविष्यामि, लजितश्च कथं कुलस्य गणस्य सङ्घस्य आगमज्ञस्य वा तपस्विनो वा स्वपक्षस्य श्रावकादेः परपक्षस्य वा परतीर्थिकादिरूपस्य मुखं दर्शयिष्यामि? अथवा तत्पापमाचरन् कुलागमतपस्विस्वपक्षपरपक्षेभ्यो लज्जते। यथा अहमेवमाचरन् कथमात्मीयं मुखं तेषां दर्शयिष्यामि? एवं लज्जातः पापं न करोति ॥ २७२९ ॥ सम्प्रति भयद्वारभावनार्थमाहअसिलोगस्स वा वाया, जो अतिसंकति कम्मसं । तहावि साहु तं जम्हा, जसो वण्णो य संजमो ॥ २७३०॥ अश्लोकस्य वा अवर्णस्य वा वादात् प्रवादात् यः कर्म अशुभासेवनारूपमतिशयेन | शङ्कते, अपकीर्तिप्रवादभयान्न कुरुते इत्यर्थः । तथापि तस्य तत् अशुभकर्मानाचरणं साधु,यस्मात्तेन यशोऽभिकाङ्कितं, यशो वर्णः संयम इत्येकार्थम् । 'जसो त्ति वा संजमो त्ति वा वण्णो त्ति वा एगटुं' इतिवचनात् । ततः परमार्थतः संयमोऽपेक्षित इति तदनाचरणं श्रेयः ॥ २७३०॥ गाथा २७२५-२७३० गीतार्थस्यापि पृथक् वसतौ निवासनिषेधः ११४१ (B) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy