SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारसूत्रम् षष्ठ उद्देशकः कलापं कृत्वा पिण्डयित्वा शोधिमाचार्यस्य समीपे कुर्वन्ति। तथाहि-एकस्मिन् स्पर्द्धके उषित्वा तत्र पौरुषीं दत्त्वा द्वितीये स्पर्द्धके समायाति तत्रैव वसति। यत्र यत्र वसति तत्रत्यास्तत्रत्याः साधवो येऽपराधा अभूवन् ते एकत्र पिण्डयित्वा आचार्यपुरत आलोचयन्ति । आचार्यस्तु शोधिं ददात्यप्रमादार्थं चोपदेशं प्रयच्छति। अत्रापि द्वितीयपदमपवादपदं ग्लाने सत्याचार्ये अपराधान् कलापं कृत्वा पिण्डयित्वा इत्यर्थः, स्पर्द्धकसाधूनामागमनमाचार्यसमीपे। इयमत्र भावना-यद्याचार्यो ग्लानत्वेनाऽतिवृद्धत्वेन वाऽजङ्गमः, न शक्नोति तेषां समीपमागन्तुं तदा इतरे स्पर्द्धकद्वयसाधवो यथा मयूरः स्वपिच्छान् कलापयति एकत्र पिण्डयति, एवमपराधानेकत्र पिण्डयित्वा हृदये सम्यगवधार्य गुरुसमीपमागत्यालोचयन्ति, आलोचितेषु अपराधेषु यदि प्रायश्चित्तं दातव्यं भवति तदा प्रायश्चित्तमाचार्यो दत्त्वा प्रमादाभावार्थमुपदेशं च दत्त्वा विसर्जयति ॥ २७२१॥ ११३८ (B) गाथा २७२०-२७२४ यूथक्वसतां प्रायश्चित्तदानविधिः एतदेव सविस्तरमाहएवं अगडसुयाणं, वीसु ठियाणं तु तीसु गामेसु । लहुया असंथरंते, तेसि अणिताण वी लहुतो ॥ २७२२ ॥ ११३८ (B) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy