________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम्
षष्ठ
उद्देशकः ११३७ (B)
च विश्रामणां कुर्वन्ति, माऽन्यथा जीर्णरथ इव स सीदेत् ॥ २७१७ ॥
अथ तस्याऽऽचार्यस्य नित्यसहायो न विद्यते तत आहअसती निच्चसहाये, गेण्हइ पारंपरे च अण्णोण्णे । ते विय अण्णेहि समं, तं मेलेउं नियत्तंते ॥ २७१८॥
असति अविद्यमाने नित्यसहाये अवस्थितसहाये, य: सकलं दिवसमाचार्येण सह हिण्डते, ततः पारम्पर्येणाऽन्यानन्यान् सहायान् गृह्णाति । तद्यथा- एके साधवस्तावन्नयन्ति यावद् द्वितीयं स्पर्द्धकं ततस्ते तैः समं मेलयित्वा प्रतिनिवर्तन्ते, ततोऽप्यन्ये साधवस्तावन्नयन्ति यावत् तृतीयं स्पर्द्धकं, ततस्तेऽपि तैः सह मेलयित्वा प्रतिनिवर्तन्ते । तानि च स्पर्द्धकान्याचार्यस्पर्द्धकेन सह त्रीणि स्पर्द्धकानि भवन्ति ॥ २७१८॥
अथ कथमाचार्य एकदिवसेन त्रयाणामकृतश्रुतस्पर्द्धकानां शोधिं करोति ?। तत आहएगत्थ वसितो संतो, तेसिं दाऊण पोरिसिं । मज्झण्हे बितिय गंतुं, भोत्तुं तत्थावरं वए ॥ २७१९ ॥
गाथा २७१२-२७१९ भिन्नवसतौ स्थिातानां समीपगमने यतना
११३७ (B)
For Private And Personal Use Only