________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम् षष्ठ उद्देशकः १११९ (A)
.
यथा परवादिनामगम्यो भवति यथा च शुचिशैक्षाश्चोक्षशिष्या अवज्ञां न कुर्वते यथा च अकथितोऽपि ज्ञायते एष गणी आचार्यः। तथाऽनुद्यमसौदर्यं तत्परिहीनो मलिनवस्त्रप्रक्षालनेन कर्त्तव्यः न च विभूषादोषप्रसक्तिः ॥ २६५७ ॥
यत आहजह उवगरणं सुज्झइ, परिहरमाणो अमुच्छितो साहू । तह खलु विसुद्धभावो, विसुद्धवासाण परिभोगे ॥ २६५८॥
यथा साधुरुपकरणं धर्मोपकरणममूर्च्छितः सन् परिहरन् परिभोगयन् शुद्धयते न परिग्रहदोषेण लिप्यते अमूर्च्छितत्वात् तथाऽऽचार्योऽपि विशुद्धवाससां परिभोगे विशुद्धभावः सन् शुद्ध्यतीति। एष तृतीयोऽतिशयः ॥ २६५८॥
सम्प्रति प्रशंसनमाहगंभीरो मद्दवितो, अब्भुवगयवच्छलो सिवो सोमो । वित्थिण्णकुलुप्पण्णो, दाया य कयण्णुतो सुयवं ॥ २६५९॥
गाथा २६५४-२६६१ आचार्यस्य
अन्ये पञ्चातिशयाः
४१११९ (A)
For Private And Personal Use Only