________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम्
षष्ठ
उद्देशक: १११२ (B)
܀܀܀܀܀܀
*******
www. kobatirth.org
चाऽचकथत् ? ततस्तैरुक्तं किं तदा न आख्यातम् दासी प्राह-शालिलवितव्यव्याघातो भविष्यतीति हेतोः । तत एवमुक्ते कौटुम्बिकः परितुष्टः, तेन च परितुष्टेन मस्तकप्रक्षालनतो दासी अदासी कृता । एवमिहापि व्याक्षेपो न करणीयः, तथा च सति भगवदाज्ञापरिपालनतः कर्मक्षयेण त्रिलोकमस्तकस्थो भवतीति ॥ २६३३ ॥ २६३४ ॥
सम्प्रति विकथादिपदव्याख्यानार्थमाह
विकहा चउव्विहा वुत्ता, इंदिएहि विसोतिया ।
अंजलीपग्गहो चेव, दिट्ठी बुद्धवजुत्तया ॥ २६३५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
विकथा स्त्रीकथादिभेदाच्चतुर्विधोक्ता, विश्रोतसिका इन्द्रियैः, उपलक्षणमेतत् मनसा वाचा प्रयतता । अञ्जलिप्रग्रहो गुरुमुखे दृष्टिबुद्धयुपयुक्तता च ॥ २६३५ ॥
उपनयस्य व्याकुलनेति व्याख्यानयति
नस्सते उवणतो सो, उ अन्नहा वोवणिज्जइ । नायं वाकरणं वा वि, पुच्छा अद्धा व भस्सइ ॥ २६३६ ॥
For Private And Personal Use Only
***
गाथा
२६३४-२६३९ | वाचनाकाले अभ्युत्थाने कृते दोषाः
१११२ (B)