________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
܀܀܀܀܀܀
षष्ठ
उद्देशकः
www. kobatirth.org
܀܀܀܀܀܀܀
वाले य साणमादी, दिट्टंतो तत्थ होति छत्तेण ।
लोभेय अभियोगे, विसे य इत्थीकए वावि ॥ २५७२ ॥ दारं ८ ।
भिक्षामटतो व्यालप्रभृतिकः कदाचिल्लगति तदा महत्यपभ्राजना । तत्र च दृष्टान्तः छत्रेण । यथा छत्रमुपरि ध्रियमाणं शोभते अधः पतितं तु न किमपि । एवमाचार्योऽपि बहुभिः परिवारितो १०९२ (B) गच्छन् शोभते, भिक्षाटनप्रवृत्तस्तु श्वादिपरिगृहीतो न किमपि । तथा प्रतिरूपवानाचार्यो भवतीति लोभेन गाथायां सप्तमी तृतीयार्थेऽभियोगो वशीकरणं स्त्रीकृतं स्यात् विषं वा केनचित् प्रद्विष्टेन दीयेत ॥ २५७२ ॥
एतदेवोत्तरार्द्धं व्याचिख्यासुराह
मोएडं असमत्था, बद्धं रुद्धं व नच्चणं कुसिया । जुवतिकमणिज्जरूवो, सो पुण सव्वे वि ते सत्तो ॥ २५७३ ॥
१ ला. मु. । लाभण - पु. प्रे. ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
܀܀܀܀܀
गाथा
| २५७०-२५७६ आचार्यस्य
रक्षा कार्या
| १०९२ (B)