SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् षष्ठ उद्देशकः १०८६ (B वाते १ पित्ते २ गणालोए,३ कायकिलेसे ४ अचिंतया ५। मेढी ६ अकारगे ७ वाले, ८गणचिंता ९ वादि १० इड्डिणो ११ ॥ २५५३॥ भिक्षामटतो वातः वातप्रकोपो भवति । तथा अत्युष्णपरितापनात् पित्ते पित्तमुद्रिक्तीभवति। तथा गणस्य गच्छस्य भिक्षाटनपरिश्रमत आलोकः कर्त्तव्यो न भवति। तथा भिक्षाटने कायक्लेशो भवति तस्माच्च सूत्रार्थपरिहाणिस्तथा सूत्रार्थयोरचिन्ता भवति। तथा मेढीभूत आचार्यः, तस्मिन् भिक्षामटति शिष्याणामात्मद्वारभावतः प्राघूर्णकादीनां वात्सल्यकरणाभावः । तथा अकारकं चेद् द्रव्यं लभते तस्य भोजने ग्लानत्वम्,अभोजने पारिष्ठापनिका दोषः। तथा भिक्षामटतो व्यालः श्वादिरुपतिष्ठति, तत्र चात्मविराधनादोषः। तथा [गणचिन्ता इति बाल-वृद्धादीनां कारकाऽकारकादिचिन्ता न भवति। वादिना प्रेरणं भवति, इत्यादयो] भिक्षाटने दोषाः एष द्वारगाथासक्षेपार्थः । साम्प्रतमेनामेव विवरीषुः प्रथमतो वातद्वारमाह भारेण वेयणाए, हिंडते उच्चनीय सासो वा । बाहुकडिवायगहणं, विसमाकारेण सूलं वा ॥ २५५४॥ भारेण भक्तभृतभाजनभारेण वेदना भवति। तथा कोऽपि ग्रामो गिरौ निविष्टो भवेत्, तत्र | गाथा २५५२-२५५७ आचार्यस्य भिक्षाटने दोषाः १०८६ (B) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy