SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् द्वितीय उद्देशकः ५४६ (B) www.kobatirth.org यथा प्रागुक्तसूत्रेऽभिहितम् 'उभयबलं परियागं [गा. १०२०] इत्यादि एमेव अनेनैव प्रकारेणास्मिन्नप्यधिकृते द्वितीये सूत्रे वक्तव्यम् । नवरमत्र नानात्वमिदम् - असंस्तरति अकल्पिकप्रतिसेवनेनापि संस्तरणमप्राप्नुवति करणमनुपरिहारिणः, यन्न शक्नोति परिहारिकः कर्तुं तद्भणितः सन् करोत्यनुपरिहारिक इति भावः । चोयग गोणीए दिट्ठतो इति पश्चाद् व्याख्येयम्ष ॥१०३१ ॥ सम्प्रति यदनुपरिहारिणा कर्तव्यं तदाह पेहा भिक्खग्गहणे, उट्टंतनिवेसणे य धुवणे य । जं जं न तरइ काउं, तं तं से करेइ बितिओ उ ॥ १०३२ ॥ Acharya Shri Kailassagarsuri Gyanmandir प्रेक्षायां भिक्षाग्रहणे उत्तिष्ठति उत्थानं कर्तुमारभमाणे निवेशने धुवने चानुपरिहारिणः, करणं भवतीति शेषः । इयमत्र भावना - यदि पारिहारिको भाण्डं प्रत्युपेक्षितुं न शक्नोति ततोऽनुपारिहारिकं ब्रूते 'प्रत्युपेक्षस्वेदं भाण्डमिति, ततोऽनुपारिहारिकस्तस्य भाण्डं प्रत्युपेक्षते, तथा यदि भिक्षानिमित्तं हिण्डितुं न शक्नोति ततो अभिधत्ते भिक्षामट, ततो भिक्षामटित्वा ददाति; एवमुत्थानं यदि कर्तुं न शक्तस्तत उत्थापयति; उपवेष्टुमशक्त For Private and Personal Use Only गाथा १०३०-१०३३ अनुपा रिहारिकसामाचारी ५४६ (B)
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy