SearchBrowseAboutContactDonate
Page Preview
Page 570
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . श्री व्यवहारसूत्रम् तृतीय उद्देशकः X ७८७ (A)| ३। एवं श्रुते यदि शङ्का भवति तर्हि ग्राहकः आचार्यः शोधयति परीक्षते इत्यर्थः । कथम्? इति चेत्, उच्यते- तिसृभिः परिपाटीभिः श्रुतेऽपि व्यवहारादिके ग्रन्थे सूरिणा स विचारणीयःकिं सम्यक् गृहीतं न वा? गृहीतेऽपि पुनः परीक्षणीयः- किं व्यवहारी? अव्यवहारी वा? तत्र यदि व्यवहारी तर्हि योग्यः, अथाव्यवहारी तर्हि अयोग्यः। अथवा ग्राहको नाम शिष्यः, स यदि तिसृभिः परिपाटीभिः शुद्ध्यति भावतो निःशेषसूत्राऽर्थपारगो भवति ततः स व्यवहारी क्रियते॥ १६९२॥ एतदेव व्याख्यानद्वयं विवरिषुराह-. गाहओ आयरिओ ऊ, पुच्छइ सो जाणि विसमठाणाणि। जइ निव्वहती तहियं, ति तस्स हिययं तु तो सुझे ॥ १६९३ ॥ ग्राहकः आचार्यः, ग्राहयतीति ग्राहक इति व्युत्पत्तेः। स यानि विषमाणि स्थानानि | तानि पृच्छति तत्र यदि निर्वहति। किमुक्तं भवति ? तस्य हृदयं सम्यगभिप्रायं जानाति | ततः शुध्यति व्यवहर्तुं व्यवहारकरणयोग्यः ॥ १६९३॥ द्वितीयं व्याख्यानमाह गाथा १६८९-१६९५ व्यवहारकारिणः ७८७ (A) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy