SearchBrowseAboutContactDonate
Page Preview
Page 565
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् तृतीय उद्देशकः ७८४ (B) मरहट्ठ लाड पुच्छा, केरिया लाडगुंठ साहिस्सं। पावार भंडिछुभणं, दसियागणणे पुणो दाणं ॥ १६८३ ॥ गुंठाहिं एवमादीहिं, हरति मोहित्तु तं तु ववहारं। दारं ७ अंबफरिसेहिं अंबो, न नेति सिद्धिं तु ववहारं ॥ १६८४ ॥ दारं ८। एको लाटो गन्त्र्या किमपि नगरं व्रजति। अपान्तराले च पथि महाराष्ट्रिको मिलितः। तेन लाटस्य पृच्छा कृता- कीदृशाः खलु लाटाः गुण्ठा: मायाविनो भवन्ति?। स प्राह- पश्चात्साधयिष्यामि कथयिष्यामि। मार्गे च गच्छतां शीतवेलाऽपगता। ततो नष्टे शीते महाराष्ट्रिकेण प्रावारो गन्त्र्यां क्षिप्तः । तस्य च प्रावारस्य दशिका लाटेन गणिताः। ततो नगरप्राप्तौ महाराष्ट्रिकेण प्रावारो ग्रहीतुमारब्धः । लाटो ब्रूते- किं मदीयं प्रावारं गृह्णासि ?। एवं तयोः परस्परं विवादो जातः । महाराष्ट्रिकेण लाटो राजकुले कर्षितः । विवादे लाटोऽवादीत् -पृच्छत महाराष्ट्रिकं यदि तव प्रावारस्तर्हि कथय 'कति दशा अस्य सन्ति ? । 'महाराष्ट्रिकेण |* न कथिताः, तेन च लाटेन कथिताः' इति महाराष्ट्रिको जितः। ततो राजकुलादपसृत्य गाथा १६८२-१६८८ तगरायाः दुर्व्यवहारिणः अष्टौ ७८४ (B) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy