SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् तृतीय उद्देशकः ७७८ (B)| पारिणामिकी चासौ बुद्धिश्च पारिणामिकबुद्धिः, तया उपेतो युक्तो भवति श्रमणसङ्घः। तथा कार्ये दुर्गेऽपि समापतिते यत् श्रुतोपदेशबलेन सम्यग्निश्चितं, तत्करणशीलः कार्ये निश्चितकारी, तथा सुष्ठु देश-काल-पुरुषौचित्येन श्रुतबलेन च परीक्षितं सुपरीक्षितं तस्य कारकः सङ्घः, न यथाकथञ्चनकारी ॥ १६६१ ॥ किह सुपरिच्छियकारी, एक्कसि दो तिण्णि वावि पेसविए। नवि निक्खिवए सहसा, को जाणइ नाऽऽगतो केण? ॥ १६६२ ॥ कथं केन प्रकारेण सुपरीक्षितकारी ? उच्यते-इहार्थिना सङ्घप्रधानस्य समीपे सङ्घसमवायो याचितस्तेन चाऽऽज्ञप्तः सङ्घमेलापककारी 'सङ्घस्त्वया मेलनीयः'। तत्र च प्रत्यर्थी कुतश्चित्कारणान्नाऽऽगच्छति ततो मानुषं प्रेषणीयं, सङ्घस्त्वां शब्दयति, स नाऽऽगतस्ततो द्वितीयमपि वारं मानुषं प्रेषयति, तथापि नाऽऽगच्छति तत्राऽपरिणामिका ब्रुवते- उद्घाट्यतामेष, गीतार्थास्त्वाहुः-पुनः प्रेष्यतां गीतार्थं मानुषं, केन कारणेन नाऽऽगच्छति ?। किं परिभवेन उत भयेन ? तत्र यदि भयेन नाऽऽगच्छति ततो वक्तव्यं -'मा भैस्त्वं परित्राणकारी खलु गाथा |१६६०-१६६६ सत्य एव व्यवहारः कर्तव्यः ७७८ (B) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy