________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
द्वितीय उद्देशकः । ५२७ (A)
तेभ्योऽयतनया भक्त-पानादिकमुत्पादयतीति भावः । तथा न तानि अनुवर्तयति नानुवर्तनागुणतः प्रवर्धमानतरधर्मश्रद्धाकानि करोति, अनुवर्तनाया अपरिज्ञानात्। तथा न ग्राहयति तानि ग्रहणशिक्षामासेवनाशिक्षां वा श्रावकधर्मोचिताम्, उभयोरपि शिक्षयोस्तस्याकुशलत्वात्॥ ९८८॥ गतं शैक्षद्वारम्। अधुना विहारद्वारं मिथ्यात्वद्वारं चाह
दसुदेसे पच्चंते, वइयादि विहार पाणबहुले य। द्वारं ३। अप्पाणं च परं वा, न मुणति मिच्छत्तसंकंतं ॥ ९८९ ॥ द्वारं ४।
सोऽज्ञतया दस्युदेशे चौरदेशे विहारं करोति, यदि वा प्रत्यन्ते बहुलम्लेच्छाकुले, अथवा लब्धतया वजिकादौ. आदिशब्दात स्वज्ञातिकादिकुलपरिग्रहः, यदि वा प्राणबहले जीवसंसक्ते देशे, एतेषु च यथायोगमात्मविराधना संयमविराधना च भूयसीति च गतं । विहारद्वारम् ३। अधुना मिथ्यात्वद्वारमाह- अप्पाणं चेत्यादि, स वराको अजानन् । आत्मानमपि कुप्ररूपणादिभिर्मिथ्यात्वसङ्क्रान्तं न जानाति, नापि परम्, ततः आत्मनः
गाथा ९८७-९९० अगीतार्थस्य विहारे दोषाः
५२७ (A)
१. 'वाऽतुष्टतया - वा. मो. पु. ॥
For Private and Personal Use Only