SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार - सूत्रम् तृतीय उद्देश : ७४५ (A) www.kobatirth.org नवश्च डहरकश्च तरुणश्च समाहारो द्वन्द्वः । तस्य पुनः सङ्गहार्थमाचार्ये विष्कम्भते मृते विधिना नियमेनान्यस्य गणधरस्याऽभिषेकः कर्तव्यः । अविधिना अभिषेककरणे प्रायश्चित्तं चत्वारो गुरुका मासाः । कोऽत्र विधि: ? इति चेत्, उच्यते- आचार्यः कालगतो न प्रकाश्य यावदन्यो गणधरो न स्थापितः । तथा चाह- पच्छन्नेत्ति, आचार्ये कालगते प्रच्छन्ने प्रदेशेऽभिषेकः करणीयः ॥ १५६२ ॥ एतदेवाह - आयरिए कालगए, न पगासेज्ज अट्ठविए गणहरम्मि । रणे व अणभिसित्ते, रज्जक्खोभो तहा गच्छे ॥ १५६३ ॥ Acharya Shri Kailassagarsuri Gyanmandir अस्थापितेऽन्यस्मिन् गणधरे आचार्यः कालगतो न प्रकाश्यते । अत्र दृष्टान्तो राजा । तथाहि - यथा राजा कालगतस्तावन्न प्रकाश्यते यावदन्यो नाभिषिच्यते । अन्यथा अनभिषिक्ते राज्ञि यथा राज्यक्षोभो भवति, दायादैः परस्परविरोधतः सर्वं राज्यं विलुप्यते इत्यर्थः । तथा गच्छेऽप्यन्यस्मिन् अस्थापिते गणधरे यद्याचार्यः कालगतः प्रकाश्यते तदा गच्छक्षोभो भवति ॥ १५६३ ॥ For Private and Personal Use Only गाथा १५६०-१५६५ आचायें कालगते सामाचारी ७४५ (A)
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy