SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् तृतीय उद्देशकः ७३३ (B) www.kobatirth.org पव्वज्जअप्पपंचम, कुमारगुरुमादि उवहि ते णयणं । निज्जंतस्स निकायण, पव्वइते त तद्दिवसपुच्छा ॥ १५३१ ॥ Acharya Shri Kailassagarsuri Gyanmandir राजा कोप्यमात्यपुरोहितसेनापति श्रेष्ठिसहितो राज्यमनुशास्ति । एतेषामेकैकः पुत्रस्तत्र राजपुत्रो राज्ञा राजा भविष्यतीति संभावितः, अमात्यपुत्रो अमात्येनामात्यत्वे, पुरोहितपुत्रः पुरोहितेन पुरोहितत्वे, सेनापतिपुत्रः सेनापतिना सेनापतित्वे, श्रेष्ठिपुत्रोऽपि श्रेष्ठिना श्रेष्ठत्वे । पञ्चापि सह क्रीडन्ति । अन्यदा कुमारो राजपुत्र आत्मपञ्चमो अमात्यपुरोहितसेनापति श्रेष्ठिपुत्रैः सहेत्यर्थः प्रव्रज्यामग्रहीत् । सर्वे च ते अतीव बहुश्रुता जाता:, ग्रहणशिक्षां आसेवनाशिक्षां चातिशिक्षितवन्तः । कुलानि च प्रीतिकरादिरूपाणि कृतानि । आचार्येण च ते गुर्वादयः सम्भावितास्तद्यथा - राजपुत्र आचार्यपदे, अमात्यपुत्र उपाध्यायत्वे, पुरोहितपुत्रः प्रवर्तित्वे, सेनापतिपुत्रः स्थविरत्वे, श्रेष्ठिपुत्रो गणावच्छेदित्वे सम्भावितः । राजादीनां चान्ये पुत्रा न विद्यन्ते, ततस्ते सूरिसमीपमागत्य विज्ञपयन्ति, यथा— नयाम एतान् स्वस्थानम्, पश्चादेतैरेव सह समागत्य वयं प्रव्रजिष्यामः । एवमुपधिना मातृस्थानेन विज्ञप्य ते तेषां नयनमपहरणं कुर्वन्ति । तस्य च राजकुमारस्याऽऽत्मपञ्चमस्य नीयमानस्याऽऽचार्यो निकाचनं करोति, For Private and Personal Use Only गाथा १५२७-१५३१ अपवादयोग्यस्य स्वरूपम् ७३३ (B)
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy