SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् तृतीय उद्देशकः ७३१ (A) बाल-वृद्ध-ग्लानादयोऽपि अनेकधा संग्रहोपग्रहविषयीकृता इति द्रष्टव्यम्। न केवलं कुलानि | तथारूपमात्राणि कृतानि किन्तु पत्तियाणित्ति प्रीतिकराणि वैनयिकानि कृतानि। स्थेयाणित्ति थेजानि प्रीतिकरतया गच्छचिन्तायां प्रमाणभूतानि। अथवा स्थेयानीति किमुक्तं भवति? नैकं द्वौ वा वारौ प्रीतिकराणि कृतानि, किन्त्वनेकश इति। वेसासियाणित्ति आत्मनो अन्येषां च | गच्छवासिनां मायारहितीकृततया विश्वासस्थानानि कृतानि, विश्वासे भवानि योग्यानि विश्वासिकानीति व्युत्पत्तेः । अत एव सम्मतानि तेषु तेषु प्रयोजनेष्विष्टानि। सम्मुदिकराणि नाम अविषमत्वेन प्रयोजनकारीणि।सोऽपि च बहुशो विग्रहेषु समुत्पन्नेषु गणस्य सम्मुदिमकार्षीत्, सम्मुदिककृततया इष्टेष्वनिष्टेषु च प्रयोजनेषु जातेषु आनुकूल्येन मतान्यनुमतानि। तथा बहूनां खग्गूडवर्जानां सर्वेषामित्यर्थः मतानि बहुमतानि भवन्ति, तिष्ठन्ति शत्रन्तस्य स्यादिदं रूपम्, ततो यद्यस्मात् तेषु कुलेषु तथारूपेषु कृतेषु कुलेषु प्रीतिकरेषु। एवं तेषु स्थेयेषु, तेषु वैश्वासिकेषु, तेषु सम्मतेषु, तेषु सम्मुदिकरेष्वित्यपि भावनीयम् । स श्रमणो निर्ग्रन्थो निरुद्धपर्यायोऽभवत् | तेन कारणेन स कल्पते आचार्यतया उपाध्यायतया वा उद्देष्टुं तद्दिवसमिति । एष सूत्रसङ्क्षपार्थः | सूत्र ९ गाथा १५२४-१५२६ पदप्रदाने अपवादः ७३१ (A) १. पीतियाणि - खं. ॥२. स्थेकानि - खं. ॥ For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy