SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् तृतीय उद्देशकः ७२० (A) www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अस्मिन् काले च कर्त्तव्यमिदं ग्लानादीनामिति विज्ञापयन् देशे काले स्मारयत्याचार्याणां ग्लानादीन् । अनुकम्पनं दुःखार्तस्यानुकम्पाकरणम् बाल-वृद्धा ऽसहान् यथादेश-कालमनुकम्पत इति भावः । अनुशासनं भज्यमाने वा रुष्टे वा । किमुक्तं भवति सामाचारीतः प्रतिभज्यमानान् कथञ्चिद् रुष्टान् वा यदनुशास्ति तदनुशासनम्, यदि वा यो यथोक्तकार्यपि सन् कथञ्चिन्न कुरुते तस्य यत् शिक्षणम् -' एतत्तदकृत्यम्' इति, खग्गूडान्वाऽनुशास्ति एतदनुशासनम्, पूजनं नाम यथाक्रमं गुर्वादीनामाहारादिसम्पादनविनयकरणम्, यदि वा ज्ञानाचारादिषु पञ्चस्वाचारेषु यथायोगमुद्यच्छतामुपबृंहणम् । अभ्यन्तरकरणं नाम द्वयोः साध्वोर्गच्छमेढीभूतयोरभ्यन्तरे कुलादिकार्यनिमित्तं परस्परमुल्लपतोस्तृतीयस्योपशुश्रूषोर्बहिष्करणम् । अथवा यदादिष्टः सन्नभ्यन्तरे गत्वा तद् गच्छादिप्रयोजनं ब्रूते एतदभ्यन्तरकरणम् । यदि वा तेन सह ये बाह्यभावं मन्यन्ते तानपि तथाऽनुवर्तयति यथा तं ते स्वजनमभिमन्यन्ते एतदभ्यन्तरकरणम् ॥१४८९ || सम्भोजनं नाम यत्साम्भोगिकैः सह भोजनम् सम्भोगे, भत्तोवहीति, यद् भक्तमुपधिं वा सम्भोगयति । किमुक्तं भवति ? यद्यस्य कारकं भक्तमुपधिर्वा तत्स्वयमुत्पाद्य तस्मै ददाति, ततो गृह्णाति वा। तथा अन्नमन्नं संवासो इति साम्भोगिकैः सह परस्परमेकत्र वसनम्, एतानि कुर्वाणः सङ्ग्रहकुशलः। पुनः कथम्भूतः ? इत्याह- सङ्ग्रहानुगता ये गुणाः तेषां निधिरिव गुणनिधिः । For Private and Personal Use Only गाथा १४९१-१४९६ सङ्ग्रहकुशल: ७२० (A)
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy