SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् तृतीय उद्देशकः ६९० (B) क्षुल्लकः उच्चं चिरकालभावि फलं यस्मात्स: उच्चफल: चिरकालेनोपकारी, 'तावता कालेन किमपि भविष्यति' इति को वेद? ततः क एनं शिक्षा ग्राहयिष्यति ?, यदि वा शकुनिशावमिव अमुं पोषयितुं दुःखं महता कष्टेनैष पोष्यते? पुनः पुनर्बुभुक्षाभावादिति भावः, अपि च पुष्टोऽपि सन्नेष मम भविष्यति न वा? को जानाति? अन्यच्चामुं सारयत: सारामस्य कुर्वतो मम सूत्रस्य अर्थस्य च महान् पलिमन्थ: व्याघातः, ततो नैतस्य मे शिक्षया प्रयोजनम्, एवं चिन्तयन् यो न ग्राहयति सोऽनर्हः, तद्विपरीतोऽर्हः ॥१४०५ ॥ तथा यः स्थविर: 'एष प्रवचनोपग्रहकरो भविष्यति' दृढदेहो वा यथा आर्यरक्षितपितेति कारणतो दीक्षितस्तिष्ठति स शैक्षस्तस्य समर्प्यते- 'एनं द्विविधामपि शिक्षां ग्राहयेति' तस्मिन्समर्पिते यदि स इदं चिन्तयति पुट्ठो वाऽऽसु मरिस्सति, दुराणुवत्तो न वेत्थ पडियारो। सुत्तऽत्थे परिहाणी, थेरे बहुयं निरत्थं तु ॥ १४०६ ॥ दारं २। एष प्रथमालिकादिदापनतः शिक्षाग्राहणतश्च पुष्टीकृतोऽपि आशु शीघ्रं मरिष्यति। वाशब्दश्चिन्तान्तरसमुच्चये। यदि वा वृद्धः स्वभावाद् दुरनुवर्त्यः दुःखेनानुवर्त्यते, न वा अत्र वद्धशिक्षापने कश्चित्प्रतीकारः। किमक्तं भवति ?- नास्मात् शिक्षापिताद् वृद्धात् गाथा १४०४-१४०९ गणधारणयोग्यास्य परीक्षा ६९० (B) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy