SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् तृतीय उद्देशकः ६८९ (B) षड्लघुकच्छेदः, तदनन्तरमप्यन्यसप्तदिवसातिवाहने षड्गुरुकच्छेदः । एतावता कालेन यदि पर्यायो न छिन्नस्ततस्त्रिचत्वारिंशत्तमे दिवसे गणं धारयतो निस्रष्टुर्वा प्रायश्चित्तं मूलम्। चतुश्चत्वारिंशत्तमे दिवसे अनवस्थाप्यम्, पञ्चचत्वारिंशत्तमे पाराञ्चितम्। तदेवं यत इत्थं प्रायश्चित्तं | ततो न वर्तते आद्यानां त्रयाणां भङ्गानामेकतरः स्थापयितुम्। कः पुनर्गणधरः स्थापयितव्यः? इति चेत्, उच्यते- शुद्धः ॥१४०२ ॥ अथ कोऽसौ शुद्ध इति शुद्धलक्षणमाहजो सो चउत्थभंगो , दव्वे भावे य होइ संछन्नो। गणधारणम्मि अरिहो, सो सुद्धो होइ नायव्वो ॥ १४०३ ॥ योऽसौ चतुर्थभङ्गः चतुर्थभङ्गवर्ती कोऽसौ ? इत्याह-द्रव्ये भावे च यो भवति | सञ्छन्नः, द्रव्यपरिच्छदविशेषैर्भावपरिच्छदविशेषैः परिकलित इति भावः । तथा आचार्यलक्षणोपेततया यो गणधारणे योग्यः स शुद्धो भवति ज्ञातव्यः ॥ १४०३ ॥ 'स च परीक्षया ज्ञातुं शक्यते' इति तत्परीक्षामाह गाथा |१३९९-१४०३ अयोग्यस्य गणधारणे प्रायश्चित्तम् ६८९ (B) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy