SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् तृतीय उद्देशकः ६७७ (A) एवमेवेत्यादि, एवमेव यथा प्रवृत्त्यैवेत्यर्थः। जम्बूकोऽपि कूपे प्रतिबिम्बमात्मनो दृष्ट्वा डेपनकं प्रतिक्षेपणमात्मनः कृतवान्। ततस्तस्य मरणम्। एवं समवतार: उपनयो यथाक्रम गीतार्थाऽगीतार्थयोः कर्तव्यः। स च प्रागेव कृत इति ५॥ १३६७-६८ ॥ साम्प्रतमेतान्युदाहरणानि यं भङ्गमाश्रित्योपदर्शितानि तत्र योजयतिएए उदाहरणा दव्वे, भावे य अपलिच्छन्नम्मि। दव्वेण अपलिच्छन्ने, भावे अपलिच्छन्न होंति इमे ॥ १३६९ ॥ एतान्यनन्तरोदितानि पञ्चाप्युदाहरणानि अप्रशस्तानि द्रव्ये भावे च सप्तमी : प्राकृतत्वात्तृतीयार्थे द्रव्येन भावेन चापरिच्छन्ने प्रथमभङ्गवर्तिनि वेदितव्यानि। प्रशस्तानि चतुर्थभङ्गे द्रव्यतो भावतश्च, परिच्छन्ने इति वाक्यशेषः। द्रव्येणापरिच्छन्ने,अनेन द्रव्यतो गणधारण अपरिच्छन्नः भावतः परिच्छन्न इति द्वितीयभङ्गः सूचितः। तत्र तथा भावे सप्तमी तृतीयार्थे योग्याऽयोग्यत्वे दृष्टान्तादिः भावेनाऽपरिच्छन्नेऽनेन द्रव्यतः परिच्छन्नो भावतोऽपरिच्छन्न इति तृतीयभङ्ग उपात्तः, तत्र भावतः इमे वक्ष्यमाणे उदाहरणे ॥ १३६९ ॥ ६७७ (A) तत्र प्रथमतो द्वितीयभने प्राह गाथा १३६९-१३७० For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy