SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् तृतीय उद्देशकः ६६६ (B) द्रव्येच्छा द्विधाआगमतो नोआगमतश्च। तत्र आगमत इच्छापदार्थज्ञाता तत्र चानुपयुक्तः । नोआगमतस्त्रिधा-ज्ञशरीर-भव्यशरीर-तद्व्यतिरिक्तभेदात्। तत्र ज्ञशरीर-भव्यशरीरे प्राग्वत्। 1 तद्व्यतिरिक्ता यद् द्रव्यमिच्छति। सा च त्रिधा सचित्तद्रव्येच्छा अचित्तद्रव्येच्छा मिश्रद्रव्येच्छा || तत्र सचित्तद्रव्येच्छा त्रिधा द्विपद-चतुष्पदा-ऽपदभेदात्। तत्र द्विपद-सचित्तद्रव्येच्छा-यत् स्त्रियमिच्छति पुरुषमिच्छति इत्येवमादि। चतुष्पदसचित्तद्रव्येच्छा यदश्वमिच्छति गावमिच्छतीत्यादि। अपदसचित्तद्रव्येच्छा आम्रस्येच्छा मातुलिङ्गस्येच्छेत्यादि। अचित्तद्रव्येच्छा सुवर्णेच्छा हिरण्येच्छेत्यादि। मिश्रद्रव्येच्छा-सुवर्णाद्यलङ्कारविभूषितस्य द्विपदादेरिच्छा। अथवा | द्रव्यादिषु द्रव्य-क्षेत्र-कालेषु यथासम्भवं स्वामित्वादि स्वामित्व-करणा-ऽधिकरणानिक भणतः, स्वामित्वादिभिः प्रकारैर्द्रव्य-क्षेत्र-कालेच्छा वक्तव्या इति भावः । तत्र स्वामित्वेन द्रव्येच्छा यथा आत्मनः पुत्रमिच्छति पुत्रस्य पुत्रमिच्छति इत्यादिका, करणेन यथा मद्येनाऽभ्यवहतेन स्तैन्येच्छा कामेच्छा वा जायते इत्यादि। अधिकरणेन यथासुप्रस्तारितायां शय्यायां स्थितस्य कामेच्छा समुत्पद्यते। क्षेत्र-कालावचेतनौ, ततो न तयोः स्वयं स्वामित्वेन इच्छा भवति, ततः करणाऽधिकरणाभ्यां तत्र योजना। तत्र क्षेत्रे [करणेन] | १. यत् स्था' पु. प्रे. मु.॥ गाथा १३४६-१३४९ इच्छा-स्थापनागण शब्दानां निक्षेपाः ६६६ (B) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy