SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहार सूत्रम् द्वितीय उद्देशकः ६५९ (A) आयाणोसाणेसुं, संपुडितो एस होइ उद्देसो। .एगाहिगारियाणं, वारेइ अतिप्पसंगं वा ॥ १३३४ ॥ आदानम् आदिः,अवसानं पर्यन्तः, तयोः साधर्मिकाधिकारप्रतिपादनादेष उद्देश: सम्पुटितः सम्पुटं सञ्जातमस्येति सम्पुटितः, तारकादिदर्शनादितप्रत्ययः । इयमत्र भावना-* अस्योद्देशकस्यादावन्ते च प्रत्येकं द्वे द्वे सूत्रे साधर्मिकाधिकारप्रतिपादके, तत एष उद्देशक: साधर्मिकाधिकारेण सम्पुटितः, सम्पुटितत्वाच्च सम्पुटनकरणमेवास्य सूत्रस्य सम्बन्धः। * अथवा एकाधिकारिकानि यानि यान्यनन्तरमुद्दिष्टानि पारिहारिकसूत्राणि तेषामेकाधिकारिकाणां पारिहारिकसूत्राणां यो भक्तदानैकत्रभोजनप्रतिषेधे अतिप्रसङ्गस्तं वार-यत्यधिकृतेन सूत्रद्वयेनेति एष पूर्वसूत्रेण सहास्य सम्बन्धः। अनेन सम्बन्धेनायातस्यास्य व्याख्या___ परिहारकल्पस्थितो भिक्षुः स्वकीयेन पतद्ग्रहेण प्रतिग्रहेणेति वा वसतेर्बहिरात्मन स्वशरीरस्य वैयावृत्त्याय भिक्षानयनायेत्यर्थः गच्छेत् । स्थविराश्च तं तथागच्छन्तं दृष्ट्वा वदेयु:अस्मद्योग्यमपि स्वपात्रके [प्रति]गृह्णीयाः, अहमपि भोक्ष्ये पास्यामि वा। एवमुक्ते से तस्य कल्पते स्थविरयोग्यं प्रतिगृहीतुं, तत्र तस्मिन् आत्मयोग्यपरि(प्रति) गृहीते सति नो कल्पते अपरिहारिकेण सता पारिहारिकस्य पतद्ग्रहे अशनं पानं खादिमं स्वादिमं वा सूत्र २९ गाथा १३३२-१३३४ परिहारिकापरिहारिक्योः भोजनविधिः ६५९ (A) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy