SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् द्वितीय उद्देशकः ६५४ (B) www.kobatirth.org तदेवमुक्तकारणवशाद् यतोऽन्यैः सममभुञ्जानो मासं यावदवतिष्ठते तस्मादेतस्य मासस्य गौणं गुणनिष्पन्नं नाम द्विधा। तद्यथा - पूतिर्निर्वलनमास इति प्रमोदमास इति। पूतिर्दुरभिगन्धस्तस्य निर्वलनं स्फेटनं तत्प्रधानो मासः पूतिनिर्वलनमासः तथा प्रमोदहेतुर्मास : प्रमोदमासः । स च मासो भोजनेन वर्ज्यः परिहर्त्तव्यः, न पुनः शेषैरालापनादिभिः ॥१३२४ ॥ यथा चाभ्यां मासपरिवर्जनमेवं पञ्चरात्रिन्दिवादिपरिवर्जनमपि भावनीयम् । किञ्चान्यदपि कारणमस्ति पञ्चरात्रिन्दिवादिपरिवर्जने ततस्तदभिधित्सुराह दिज्जइ सुहं च वीसुं, तवसोसियस्स जं बलकरं तु । पुणरवि य होइ जोग्गो, अचिरा दुविहस्स वि तवस्स ॥ १३२५ ॥ Acharya Shri Kailassagarsuri Gyanmandir इह यद्येकत्र भुङ्क्ते ततः सहैव स्वसङ्घाटकेनैष भुङ्क्ते, इत्यनादरबुद्धया यत्तपः शोषितस्य बलवर्धनकरं तस्य दानं न भवति, विष्वक् पृथग्भोजने पुनः तपः शोषितगात्रोऽयमद्यापि न मण्डल्यां भुङ्क्ते, इत्यादरबुद्धिभावतः तपसा शोषितस्य तद्बलवर्धनकरमशनादि तत्सुखेनैव सर्वैरपि साधुभिर्दीयते । तस्यापि दाने को गुण: ? इत्याह १. '' वा. पु. । एवमग्रेऽपि ॥ For Private and Personal Use Only सूत्र २८ गाथा १३२४-१३२६ परिहारिकस्य भोजनदाने विधि: ६५४ (B)
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy