SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . श्री व्यवहारसूत्रम् द्वितीय उद्देशकः ५१६ (BIX ज्ञानविषयं द्विकमिदम, तद्यथा- कैवलिकं छाद्मस्थिकं च। नोज्ञाने नोज्ञानविषयं द्विकं दृष्टिश्चरणं च। दृष्टिः सम्यक्त्वं, चरणं चारित्रम् ॥९६९ ॥ एतदेव सप्रभेदं प्ररूपयति-- एक्केक्क्कं पि य तिविहं, सट्ठाणे नत्थि खइय अइयारो । उवसामिएवि दोसुं, अइयारो होज सेसेसु ॥ ९७० ॥ एकैकमपि दर्शनं चरणं च प्रत्येकमित्यर्थः, त्रिविधं त्रिप्रकारम्। तद्यथा-क्षायिकम् औपशमिकं क्षायोपशमिकं च। तत्र क्षायिकं सम्यक्त्वं क्षायिकसम्यग्दृष्टेः। औपशमिकमुपशमश्रेण्याम्। शेषकालं क्षायोपशमिकम्। चरणमपि क्षायिकं क्षपकनिर्ग्रन्थस्य, औपशमिकमुपशमश्रेण्याम्, अन्यदा क्षायोपशमिकम्। तत्र क्षायिके ज्ञाने दर्शने चारित्रे च स्वस्थाने नास्त्यतीचारः। तथाहि- केवलिनस्त्रिष्वपि ज्ञानदर्शनचारित्रेषु क्षायिकेषु वर्तमानस्य न तद्विषया काचिदपि विराधना, परस्थाने तु सम्भवेदपि, तथाहि- श्रुतकेवल्यादेः क्षायिके दर्शने वर्तमानस्य दर्शने नास्ति विराधना, ज्ञानचरणयोस्तु भजनेति। उवसामिए वि दोसुं ति द्वयोर्दर्शनचरणयोरौपशमिके भावे वर्तमानयोः स्वस्थाने नास्त्यतीचारः। औपशमिकं हि दर्शनं चारित्रं च नियमादुपशमश्रेण्यां भवति, तत्र च कषायाणाम् गाथा ९६९-९७३ निक्षेपाः साधर्मिकस्य ५१६ (B) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy