SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् द्वितीय उद्देशकः ६५१ (B) www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अयं च चतुर्थः सम्बन्धः प्रकारः । पञ्चममाह- वाशब्दोऽत्रापि प्रकारान्तरद्योतनार्थः, व्यवहारार्थं किल व्यवहाराध्ययनं प्रकृतम् । ततस्तस्मिन् नदी श्रोतोवदनुवर्तमाने प्रकृते व्यवहारे अह एष एतेषां परिहारिकाणामपरिहारिकाणां च व्यवहारो भण्यते ५ ॥ १३१९ ॥ अनेन सम्बन्धपञ्चकेनायातस्यास्य व्याख्या बहवः प्रभूताः परिहारिका बहवोऽपरिहारिकाः कारणवशतः तीर्थकरोपदेशेच्छया न स्वच्छन्देच्छया इच्छेयुः- एकत एकत्रस्थाने एकमासं वा द्विमासं वा त्रिमासं वा चतुर्मासं व यावत्करणात् पञ्चमासं वा षण्मासं वा वस्तुं, तत्र ते तथावसन्तो अन्योऽन्यं परस्परमपरिहारिका इति शेषः, सम्भुञ्जते सर्वप्रकारै: भुञ्जते, अन्नमन्नं न संभुंजंतित्ति परिहारिका यावत्तपो वहन्ति तावत्ते परस्परमपरिहारिकैः परिहारिकैर्वा समं न संभुञ्जते न सर्वप्रकारैः भुञ्जते मासं ते अन्नमन्नं न सम्भुञ्जन्ति यैः षण्मासाः सेवितास्तेषां यः षण्मासोपरिवर्त्ती मासस्तं यावत्ते परिहारिकाः परस्परं परिहारिकैः सममुपलक्षणमेतत्, अपरिहारिकैर्वा सममेकत्र न सम्भुञ्जते, आलापनादीनि तु कुर्वन्ति । तत उपरितनमासपरि १. वा पञ्च वा. पु. ॥ For Private and Personal Use Only * सूत्र २७ गाथा १३१६-१३१९ परिहारिका - परिहारिक भोजनविधिः ६५१ (B)
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy