SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् द्वितीय उद्देशकः . ६४८ (B) योऽसावाचार्येण सन्दिष्टः यथा-एतं साधु निर्माप्य एतस्मै दिशमनुदिशं वा दद्यात्। स निर्मापितः निर्माप्य चाचार्यपदे स्थापितः । ततः स यदि निर्मापितस्थापितस्तेन सह तिष्ठति विहरति । ततो लष्टं समीचीनम् । अथ नैव अपिशब्द एवकारार्थः, न तिष्ठति तत्र तस्य समीपे तर्हि से तस्य सङ्घाटको दातव्यः । यश्च पूर्वाचार्येण वैयावृत्त्यकरो दत्तः सोऽपि तेन सार्धं विहरति । तत्र ये स्थापितगणधरेणैको द्वौ त्रयो वा सहाया दत्ताः, यश्च पूर्वाचार्यप्रदतो वैयावृत्त्यकरस्तान् पाठयति। ये चाभिनवशैक्षिका उपस्थापिताः प्रव्राजितास्तेऽप्यात्मनः शिष्यत्वेन सम्बन्धनीयाः ॥ १३१२ ॥ एवं सञ्जातपुष्टविहारः सन् अन्यत्र विहारेण गतः, तस्य तथा विहरतः शिष्यान् स स्थापितगणधरो विपरिणमयितुकामो यत्समाचरति तदुपदर्शयति पेसेइ गंतुं व सयं व पुच्छे, संबंधमाणो उवहिं व देती। सझंतिया सिं च समल्लियावि, सचित्तमेवं न लभे करेंतो ॥ १३१३ ॥ यत्र स निर्मापितस्थापितो विहरति तत्रोदन्तवाहकान् साधून् तच्छिष्याणां प्रेषयति। अथवा स्वयमन्तराऽन्तरा गत्वा तान् पृच्छति, यथा संस्तरथ यूयं सुखेन? यद् भे भवतां गाथा १३११-१३१५ सभकं विहारायोपदेशः ६४८ (B) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy