________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम्
द्वितीय उद्देशकः
५१५ (B)
विकलेन्द्रियं त्रिधा द्वित्रिचतुरिन्द्रियभेदात्। पुनः प्रत्येकं द्विधा पर्याप्तमपर्याप्तं च। पञ्चेन्द्रियं द्विधा सङ्ख्यातवर्षायुष्कमसङ्ख्यातवर्षायुष्कं च। एकैकं द्विधा पर्याप्तमपर्याप्तं च । निर्वृतमपि द्विधा-अनन्तरसिद्ध परम्परसिद्धं च। अथवा सचित्तं त्रिविधम्, तद्यथा- द्विपदं चतुष्पदमपदं च। तत्र द्विपदं द्वौ पुरुषावित्यादि, चतुष्पदं द्वौ बलीवावित्यादि, अपदं द्वौ वृक्षावित्यादि। अचित्तं द्वौ परमाणू, द्वौ द्विप्रदेशिकौ, त्रिप्रदेशिको यावत् द्वौ. सङ्ख्यातप्रदेशिकौ द्वौ असङ्ख्यातप्रदेशिकौ, द्वावनन्तप्रदेशिकौ, सङ्ख्यातस्य सङ्ख्याता भेदाः, असङ्ख्यातस्य असङ्ख्याता, अनन्तस्य अनन्ताः। उक्तं द्रव्यद्विकम्। अधुना क्षेत्रद्विकमाह
खेत्ते दुपदेसादी, क्षेत्रे क्षेत्रविषयं द्विकं द्विप्रदेशादि द्वावाकाशप्रदेशौ। आदिशब्दात् द्विप्रदेशावगाढं वा क्षेत्रद्विकम्, क्षेत्रद्विके तस्यावस्थानात्। यदि वा द्वे भारते द्वे ऐरावते इत्यादिपरिग्रहः। उक्तं क्षेत्रद्विकम्। अधुना कालद्विकमाह- द्विसमयादिकं द्वौ समयौ, आदिशब्दात् द्वे आवलिके, द्वौ मुहूर्तावित्यादिपरिग्रहः । अथवा द्विसमयस्थितिकं द्रव्यम्, कालद्विकेऽवस्थानात् कालद्विकम्। आदिशब्दात् व्यावलिकास्थितिकादिपरिग्रहः ॥९६८ ॥
उक्तं कालद्विकमधुना भावद्विकमाह
सूत्र-१
गाथा ९६५-९६८ निक्षेपाः द्विशब्दस्य
५१५ (B)
For Private and Personal Use Only