SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् द्वितीय उद्देश: ५१५ (A) ܀܀ ܀܀܀܀܀܀ www.kobatirth.org च भवति बोद्धव्यम् । तथा भावे च भावविषयं च द्विकम् । एष द्विके द्विशब्दस्य षट्को भवति निक्षेपः । तत्र नामद्विकं द्वे नामनी, अथवा यस्य द्विकमिति नाम तन्नामद्विकम् । स्थापनाद्विकं द्वे स्थापने द्विकस्य स्थापना वा स्थापनाद्विकम् ॥ ९६७ ॥ सम्प्रति द्रव्य-क्षेत्र - कालद्विकप्रतिपादनार्थमाह चित्तमचित्तं एक्केक्कयस्स, जे जत्तिया उ दुयभेया । खेत्ते दुपसादी, दुसमयमादी उ कालम्मि ॥ ९६८ ॥ Acharya Shri Kailassagarsuri Gyanmandir द्रव्यद्विकं द्विविधम्-आगमतो नोआगमतश्च । तत्रागमतो द्विकशब्दार्थज्ञाता तत्र चानुपयुक्तः । नोआगमतस्त्रिविधं ज्ञशरीर भव्यशरीर-तद्व्यतिरिक्तभेदात् । तत्र ज्ञशरीरभव्यशरीरे प्राग्वत् । तद्व्यतिरिक्तं सचित्तमचित्तं च, एकैकस्य ये यावन्तो द्विकभेदाः सम्भवन्ति ते सर्वे वक्तव्याः । ते चेमे-सचित्तं द्रव्यद्विकं द्विधा-संसारस्थं निर्वृतं च । संसारस्थं द्विधा एकेन्द्रियमनेकेन्द्रियं च । तत्रैकेन्द्रियं पञ्च प्रकारं पृथिव्यप्तेजोवायु-वनस्पतिभेदात् । एकैकमपि द्विधा - पर्याप्तमपर्याप्तं च । अनेकेन्द्रियं द्विधा - विकलेन्द्रियं पञ्चेन्द्रियं च । For Private and Personal Use Only ܀܀܀ सूत्र - १ गाथा ९६५-९६८ निक्षेपा: द्विशब्दस्य ५१५ (A)
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy