SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रम् अट्ठिगमादी वसभा, पुदि पच्छा व जंति निसि सुणणा। श्री आवस्सग आउट्टणसब्भावे वा असब्भावे ॥ १२२९ ॥ व्यवहार अस्थिकाः- कापालिकाः, आदिशब्दात् सरजस्कादिपरिग्रहः, तद्रूपाः सन्तः, किमुक्तं : द्वितीय भवति? कापालिकवेषं वा सरजस्कवेषं वा यदि वा मायासूनवीयं वेषं कृत्वा यस्यां वसतौ उद्देशकः तौ द्वावपि जनौ तिष्ठतस्तत्र पूर्वं वृषभा गच्छन्ति, यदि वा तयोर्गतयोः पश्चात्तत्र च गत्वा | ६१८ (B)| रात्रौ मातस्थानेन सप्ता इव तिष्ठन्तो द्वयोरपि तयोः परस्परमुल्लापं शृण्वन्ति। तयोश्चा- | ऽऽवश्यकं कर्तुकामयोर्योऽसाववमरत्नाधिकोऽभ्याख्यानदाता स इतरं प्रति मिथ्यादुष्कृते. नोपस्थितः एतद्वदति त्वं मया असताऽभ्याख्यानेनाभ्याख्यातः, मिथ्यादुष्कृतमिति। ततो |* रत्नाधिको ब्रूते- किं नाम तवापकृतं मया येनाऽसदभ्याख्यानं मे दत्तम्? इति अवमरत्नाधिको भाषते-त्वं नित्यमेव यत्र तत्र वा कार्य सम्यक् प्रवर्त्तमानमपि हे दुष्टशैक्षक! इति तर्जयसि तेन मया त्वमसदभ्याख्यानेनाभ्याख्यातः एवम् आवश्यके आवश्यकवेलायामावर्त्तने भावप्रत्यावर्त्तने अलीकाभ्याख्याने सद्भावो ज्ञायते। अथ न परस्परासम्भाषणतः सद्भावो ज्ञायते, तदा असद्भावे सद्भावपरिज्ञानाभावे तपस्वी प्रष्टव्य इति शेषः ।। १२२९॥ गाथा १२२८-१२३१ अभ्याख्याने उपायाः ६१८ (B) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy