SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहार सूत्रम् द्वितीय उद्देशकः ६०५ (A) अंगिहीभूतो कीरइ, रायणुवत्तिए १पदुट्ठसगणो वार। परमोयावण३ इच्छा, दोण्ह गणाणं विवादो वा ४॥ ११९३ ॥ दारगाहा। अगृहीभूतः अगृहस्थीभूतः सन् उपस्थाप्यः क्रियते राजानुवृत्त्या । यदि वा प्रद्विष्टः स्वगणः, अथवा परैर्बलात्कारेण मोचापनं परमोचापनं, यद्वा इच्छा पूर्वा द्वयोर्गणयोर्विवादे । एतैः कारणैरगृहीभूतोऽप्युपस्थाप्यते ॥ ११९३॥ तत्र यथा राजानुवृत्त्या सोऽगृहस्थीभूतोऽप्युपस्थाप्यो भवति तथा भाव्यते। इहानवस्थाप्यं पाराञ्चितं वा कोऽपि प्रतिपन्नस्तस्य चायं कल्पः- यावदनवस्थाप्यं पाराञ्चितं वा वहति तावदहिः क्षेत्रादवतिष्ठते। स च बहिर्यावत्तिष्ठति तावन्न गृहस्थः क्रियते किन्त्वागतः करिष्यते। बहिश्चावतिष्ठमानः स जिनकल्पिक इव भिक्षाचर्यामलेपकृद्भक्तादिग्रहणात्मिकां करोति। तस्य च तथा बहिस्तिष्ठतो यदाचार्यः करोति तत् प्रतिपादयति ओलोयणं गवेसण,आयरिओ कुणति सव्वकालंपि। उप्पन्ने कारणम्मि, सव्वपयत्तेण कायव्वं ॥ ११९४ ॥ [बृ.क.भा. ५०३६] १. 'अत्र ११९३ गाथा स्थाने चूर्णी भिन्ना गाथा दृश्यते'-पु.प्रे. ॥ सूत्र २३ गाथा ११९१-११९५ गृही अकरणे कारणानि ६०५ (A) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy