SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहार सूत्रम् द्वितीय उद्देशकः ६०४ (A) एके आचार्याः [लाटा:] एवं ब्रुवते-स्नानविवर्जं वरं नेपथ्यं तस्य क्रियते। अपरे दाक्षिणात्याः पुनरेवमाहुः वस्त्रयुगलमात्रं परिधाप्यते। ततः पर्षन्मध्ये आचार्यसमीपमुपगम्य ब्रूते- 'भगवन्! धर्म श्रोतुमिच्छामि', ततः कहणत्ति आचार्या धर्म कथयन्ति । कथिते च सति सकलजनसमक्षं ब्रूते- 'श्रद्दधामि सम्यग् धर्ममेनमिति मां प्रव्राजयत'। एवमुक्ते तस्य दीक्षा लिङ्गसमर्पणम्। लिङ्गसमर्पणानन्तरं च तत्क्षणमेवोपस्थाप्यते ॥ ११९० ॥ अत्र शिष्यः प्राह कस्मादेष गृहस्थावस्थां प्राप्यते? सूरिराह ओहामितो न कुव्वइ, पुणो वि सो तारिसं अतीयारं। होइ भयं सेसाणं, गिहिरूवे धम्मिया चेव ॥ ११९१ ॥ किं वा तस्स न दिज्जति, गिहिलिंगं? जेण भावतो लिंग। अजढे वि दव्वलिंगे, सलिंगपडिसेवणा विजढं ॥ ११९२ ॥ अपभ्राजितो मानम्लानिमापादितः सन् पुनरपि स तादृशमतीचारं न करोति। शेषाणामपि च साधूनां भयमुत्पादितं भवति येन तेऽप्येवं न कुर्वते । तस्माद् गृहरूपे सूत्र २३ गाथा ११९१-११९५ गृही अकरणे कारणानि ६०४ (A) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy