SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् द्वितीय उद्देशकः ५९६ (A) न लज्जा भूयात् यदेवं मदीयपुत्रो दासत्वमापन्नोऽद्यापीह धृतो वर्तते इति। अथैवमप्युक्ते ते द्रव्यं न प्रयच्छन्ति। तत इदमपि वक्तव्यं- राजकुलं गत्वा व्यवहारेणाप्यहं भागं | बहुतरकं प्रभूततरकं ग्रहीष्यामि भे भवतां तद् वरमिदानी स्तोकं प्रयच्छथ। एवं तेषां भीषणं कर्तव्यम्। यदि वा येन गृहीतो वर्तते तस्य भीषणं विधेयं, यथा- यदि मोचयसि तर्हि मोचय, अन्यथा भवतस्तं शापं दास्यामि येन न त्वं नेदं वा तव कुटुम्बकमिति ४। एवं भीषणेऽपि कृते यदि न मुञ्चति यदि वा ते स्वजनाः किमपि न प्रयच्छन्ति तदा स्वयं राजकुले गत्वा निजकैः सह व्यवहार: करणीयः। व्यवहारं च कृत्वा भाग आत्मीयो गहीत्वा तस्मै दातव्यः। यदवा स एव राजकले व्यवहारेणाकष्यते. तत्र च गत्वा वक्तव्यं | यथा-अयमृषिपुत्रो व्रतं जिघृक्षुः केनापि कपटेन धृतोऽनेन वर्तते, यूयं च धर्मव्यापारनिषण्णाः, ततो यथाऽयं धर्ममाचरति यथा चामीषामृषीणां समाधिरुपजायते तथा यतध्वमिति ५। अस्यापि प्रकारस्याभावे यद् यत्र लिङ्गमर्चितं तत्परिगृह्णाति। परिगृह्य च दापनार्थं, विवक्षितबालकमोचनार्थमित्यर्थः । तल्लिङ्गधारिणां मध्ये ये महान्तस्तेषां प्रज्ञापना कर्तव्या। येन ते मोचयन्ति ६॥११६८ ॥११६९ । १. मोचनीयं तर्हि - वा. मो. पु. मु. ॥ गाथा ११७०-११७३ अर्थजाते यतना ५९६ (A) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy