________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम्
द्वितीय उद्देशकः ५९१ (B)
उक्तं हि यस्मात्पूर्वं कल्पाध्ययने उत्तमार्थे उत्तमार्थं प्रतिपत्तुकामस्य द्वयक्षरे व्यक्षरस्य दासस्य दीक्षा दीयते। यदि वा प्रतिचरणाय 'एष दीक्षितो मां ग्लानं सन्तं प्रतिचरिष्यति' इति निमित्तम्। एत्तो य इत्यादि, इतश्च दीक्षादानानन्तरं तत्समीपाद यस्य समीपे दीक्षा गृहीता तस्य सकाशात् , गाथायां द्वितीया पञ्चम्यर्थे । यदि हियते अतो अर्थजातं भवति । प्रयोजनजातमुत्पद्यते। तेतस्तं प्रति अर्थजातसूत्रावकाशः ।। ११५५ ॥ ___ अनेन सम्बन्धेनायातस्यास्य व्याख्या- सा च प्राग्वत्। साम्प्रतमर्थजातं भिक्षु ग्लायन्तमित्यत्र योऽर्थजातशब्दस्तद्व्युत्पत्तिप्रतिपादनार्थमाह
अत्थेण जस्स कजं, संजायं एस अट्ठजातो उ। सो पुण संजमभावा, चालिज्जंतो परिगिलाइ ॥ ११५६ ॥
[बृ.क.भा. ६२८६] अर्थेन अर्थितया जातं कार्यं यस्य, सम्बन्धविवक्षायामत्र षष्ठी येनेत्यर्थः । सोऽर्थजातः गमकत्वादेवमपि समासः। उपलक्षणमेतत्, तेनैवमपि व्युत्पत्तिरवसातव्या अर्थः१. ततः सम्प्रति आहोर ७,६४॥
सूत्र १८
गाथा ११५२-११५६
अर्थजाते सामाचारी
५९१ (B)
For Private and Personal Use Only