________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम् द्वितीय
उद्देशकः
५८८ (B) |
܀܀܀܀܀܀
***
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मुत्पादनीयम् । तथाप्यतिष्ठति यस्य या लब्धिः स तां न हापयेत्, प्रयुञ्जीतेत्यर्थः । एतदेव विपक्षे फलभावोपदर्शनेन द्रढयति- किं वा सत्यां शक्तौ स्वपक्षे स्वपक्षस्य उपेक्षया, नैव किञ्चिदिति भावः । केवलं स्वशक्तिनैष्फल्यमुपेक्षानिमित्ता प्रायश्चित्तापत्तिश्च भवति । तस्मादवश्यं स्वशक्तिः परिस्फोरणीयेति ॥११४८ ॥
सूत्रम् - सपायच्छित्तं भिक्खुं गिलायमाणं नो कप्पइ तस्स गणावच्छेदियस्स निज्जूहित्त, अगिला करणिज्जं वेयावडियं जाव रोगातंकातो विप्पमुक्के, ततो पच्छा अहालहुस्सगे नामं ववहारे पट्ठवियव्वे सिया ॥ १५ ॥
अथास्य सूत्रस्य कः सम्बन्ध: ? उच्यते
अहिगरणम्मि कयम्मी, खामिय समुवट्ठियस्स पच्छित्तं ।
तप्पढमया भएण व, होज्जा किलंतो व वहमाणो ॥ ११४९ ॥
[बृ.क.भा. ६२७९]
अधिकरणे कृते क्षामिते च तस्मिन् समुपस्थितस्य प्रायश्चित्तं दीयते । ततः
For Private and Personal Use Only
सूत्र १६-१७ गाथा ११४७-११५१ सप्रायश्चित्त
भक्तपान
प्रत्याख्यातयोः विधिः
५८८ (B)