________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् द्वितीय उद्देशकः ५६५ (A)
रक्षा अस्यास्तीति रक्षकः, रक्षायां नियुक्तो राक्षिको वा, तस्मिन् रक्षके राक्षिके वा | ग्रामस्य नगरस्य वा रक्षाकारिणि महर्द्धिके कथना कर्तव्या, तस्मै कथयितव्यमिति भावः। यथा अत्र एतस्मिन्नुपाश्रये अस्माकं रक्षतामपि एष पिशाच: ग्रथिलः कदाचित् स्फिटति अपगच्छति, स हु: निश्चितं परिरक्षितव्यः, प्रतिपन्नवत्सलत्वादिति ॥१०७८ ॥ व्याख्यातं महर्द्धिकद्वारम्१ । अधुना 'उट्ठनिवेसणा य' इति व्याख्यानयति
मिउबंधेहि तहा णं, जमेंति जह सो सयं तु उठेति। उव्वरग सत्थरहिते, बाहि कुदंडे असुण्णं च ॥ १०७९ ॥
___ [बृ.क.भा. ६२१४] मृदुबन्धैः कोमलबन्धैस्तथा णमिति तं क्षिप्तचित्तं यमयन्ति बन्धन्ति यथा स्वयमुत्तिष्ठति। तु शब्दस्यानुक्तसमुच्चयार्थत्वान्निविशते च। तथा स तस्मिन्नपवरके स्थाप्यते यत्र न किमपि शस्त्रं भवति। अन्यथा स क्षिप्तचित्ततया युक्तमयुक्तं वाऽजानानः शस्त्रं दृष्ट्वा तेनाऽऽत्मानं व्यापादयेत्। तस्य चापवरकस्य द्वार बहिः कुदण्डेन वंशटोक्करादिना बध्यते न येन निर्गत्यापगच्छति। तथा अशुन्यं यथा भवति एवं स वारेण वारेण प्रतिजाग्रियते, अन्यथा शून्यमात्मानमुपलभ्य बहुतरं क्षिप्तचित्तीभूयात्॥१०७९॥
गाथा १०७७-१०८१ क्षिप्तचित्ते यतना
५६५ (A)
For Private and Personal Use Only