SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् द्वितीय उद्देशकः ५६१ (A) ते यस्य सन्ति श्रमणगुणमुक्तयोगी, संसारप्रवर्धको भणितस्तीर्थकरगणधरैः। ततो यः संयमदुर्बलो विहृतवान् स शोच्य एव भवदीयस्तु भ्राता यदि कालगतो दृढचारित्रे, ततः स परलोकेऽपि सुगतिभागिति न करणीयः शोकः ॥१०६८ ॥ सम्प्रति 'जड्डाइ तिरिक्ख' [गा.१०६३] इत्यस्य व्याख्यानार्थमाह जड्डाई तेरिच्छे, सत्थे अगणीय थणिय विजू य। ओमे पडिभीसणया, चरगं पुव्वं परूवेउं ॥ १०६९॥[बृ.क.भा. ६२०४] जड्डः हस्ती आदिशब्दात् सिंहादिपरिग्रहः तान् तिरश्चो दृष्ट्वा । किमुक्तं भवति?- गजं वा मदोन्मत्तं सिंह वा गुञ्जन्तं व्याघ्रं वा तीक्ष्ण-खर-नखरविकरालमुखं दृष्ट्वा कोऽपि भयतः क्षिप्तचित्तो भवति। कोऽपि पुनः शस्त्राणि खड्गादीन्यायुधानि दृष्ट्वा । इयमत्र भावनाकेनापि परिहासेनोद्गीर्णं खड्गं वा कुन्तं वा क्षुरिकादिकं वा दृष्ट्वा कोऽपि 'हा! मारयति मामेषः' इति सहसा क्षिप्तचित्त उपजायते। तथा अग्नौ प्रदीपनके च लग्ने कोऽपि भयतः क्षिप्तो भवति। कोऽपि स्तनितं मेघगर्जितमाकर्ण्य कोऽपि विद्युतं दृष्ट्वा । एवं क्षिप्तचित्तस्य जातस्य ओमे पडिभीसणया इति अवमः लघुतरः तेन प्रतिभीषणं हस्त्यादेः कर्तव्यं येन क्षिप्तचित्तताऽपगच्छति। यदि पुनश्चरकेण वादे पराजितः इति गाथा १०६६-१०७१ क्षिप्तचित्ततायाः कारणानि ५६१ (A) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy