SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् द्वितीय उद्देशकः ५५६ (A) ܀܀܀܀ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्राक् तपोर्हं प्रायश्चित्तं प्रतिपन्नस्य सूत्रमुक्तम्, इदानीं छेदार्हं प्रतिपन्नस्य वक्तव्यम् । छेदश्च द्विधा - पर्यायव्यवच्छेदो मण्डलीव्यवच्छेदश्च । ततो मण्डल्या व्यवच्छिन्नमनवस्थाप्यमपेक्ष्याधिकृतसूत्रस्योपनिपातः । अथवा पूर्वसूत्रे ग्लायतो विधिरुक्तः अनेनापि ग्लायो विधिरुच्यते इत्यनेन सम्बन्धेनायातस्यास्य व्याख्या अनवस्थाप्यं नवमप्रायश्चित्तप्रतिपन्नं भिक्षं ग्लायन्तं न कल्पते यस्य समीपमागतस्तस्य गणावच्छेदिनो निर्यूहितुं निराकर्तुम्, किन्तु तस्य अगिलया राजवेष्टिमिवाननुमन्यमानेन सर्वज्ञादेशः इति बुद्ध्या कर्मनिर्जरणनिमित्तं तस्य करणीयम् वैयावृत्त्यं तावद् यावद् रोगातङ्काद् विप्रमुक्तो भवति । ततः पश्चात्तस्य प्रगुणीभूतस्य सतो यथालघुस्वको यथोदितस्वरूपो व्यवहारः प्रायश्चित्तं प्रस्थापयितव्यो दातव्यः स्यात् ॥ सूत्रम् - पारंचियं भिक्खुं गिलायमाणं नो कप्पति तस्स गणावच्छेदितस्स निज्जूहित्तए अगिलाए तस्स करणिज्जं वेयावडियं जाव रोगातंकातो विष्पमुक्को, ततो पच्छा तस्स अहालहुस्सए ववहारे पट्ठवियव्वे सिया । इति ॥ ८ ॥ एवं 'पारंचियं भिक्खुं' अथास्य सूत्रस्य पूर्वसूत्रेण सह कः सम्बन्ध ? उच्यते For Private and Personal Use Only सूत्र ९ गाथा १०५५-१०५९ ग्लानस्य वैयावृत्त्य सामाचारी ५५६ (A)
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy